केसरी

सुधाव्याख्या

केसराः स्कन्धबालाः सन्त्यस्य । ‘अत:-' (५.२.११५) इतीनिः । ‘केसरी तुरगे सिंहे पुंनागे नागकेसरे’ (इति मेदिनी) ॥ केचित् (केसरी) इति तालव्योष्ममध्यमाहुः । के वारि शिरसि वा शीर्यते । ‘शॄ हिंसायाम्' (क्र्या० प० से०) । ‘ॠदोरप्’ (३.३.५७) । ‘हलदन्तात्-' (६.३.९) इत्यलुक् । सोऽस्त्यस्य । इन् (५.२.११५) ॥