सिंहः

सुधाव्याख्या

सिंह इति । सिञ्चति । ‘षिच क्षरणे' (तु० उ० अ०) । ‘सिचेः संज्ञायां हनुमौ कश्च' (उ० ५.६२) । यद्वा हिनस्ति । ‘हिसि हिंसायाम्’ (रु० प० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः । सिंही तु कण्टकार्यां स्यात्' (इति मेदिनी) । ‘सिंही स्वर्भानुमातरि । वासाबृहत्योः क्षुद्रायाम्' (इति हैमः) ॥