पञ्चास्यः

सुधाव्याख्या

पञ्चते । ‘पचि विस्तारे' (भ्वा० आ० से०) । पञ्च विस्तृतमास्यमस्य । यद्वा मुखं पादाश्च पञ्च आस्यानीव यस्य । युद्धे मुख्यत्वात् ॥


प्रक्रिया

धातुः -


पचिँ व्यक्तीकरणे
पच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पन्च् - इदितो नुम् धातोः 7.1.58
पंच् - नश्चापदान्तस्य झलि 8.3.24
पञ्च् - अनुस्वारस्य ययि परसवर्णः 8.4.58
पञ्च् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
पञ्च् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पञ्च + सु + आस्य + सु - अनेकमन्यपदार्थे 2.2.24
पञ्च + आस्य - सुपो धातुप्रातिपदिकयोः 2.4.71
पञ्चास्य
पञ्चास्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पञ्चास्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पञ्चास्य + रु - ससजुषो रुः 8.2.66
पञ्चास्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पञ्चास्यः - खरवसानयोर्विसर्जनीयः 8.3.15
प्रत्ययः –
हर्यक्षः सुधाव्याख्या - हरिणी पिङ्गले अक्षिणी यस्य । ‘बहुव्रीहौ०' (५.४.११३) इति षच् ॥