अमरकोशः


श्लोकः

नित्यानवरताजस्रमप्यथातिशयो भरः । अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नित्य नित्यम् नपुंसकलिङ्गः नियमेन भवम् । त्यप् तद्धितः अकारान्तः
2 अनवरत अनवरतम् नपुंसकलिङ्गः नास्त्यवरतं यत्र ।। बहुव्रीहिः समासः अकारान्तः
3 अजस्र अजस्रम् नपुंसकलिङ्गः न जस्यति । नञ् समासः अकारान्तः
4 अतिशय अतिशयः पुंलिङ्गः अतिशेते । अच् कृत् अकारान्तः
5 भर भरः पुंलिङ्गः भरति । अच् कृत् अकारान्तः
6 अतिवेल अतिवेलम् नपुंसकलिङ्गः अतिक्रान्तं वेलां मर्यादाम् । तत्पुरुषः समासः अकारान्तः
7 भृश भृशम् नपुंसकलिङ्गः भृशते । कृत् अकारान्तः
8 अत्यर्थ अत्यर्थम् नपुंसकलिङ्गः अर्थो निवृत्तिर्विषयो वा, तमतिक्रान्तम् अत्यर्थम् ।। अव्ययीभावः समासः अकारान्तः
9 अतिमात्र अतिमात्रम् नपुंसकलिङ्गः मात्रा स्तोकम्, तामतिक्रान्तम् । अव्ययीभावः समासः अकारान्तः
10 उद्गाढ उद्गाढम् नपुंसकलिङ्गः उद्गाहते स्म । क्त कृत् अकारान्तः
11 निर्भर निर्भरम् नपुंसकलिङ्गः नि:शेषेण भरोऽत्र । तत्पुरुषः समासः अकारान्तः