नित्यम्

सुधाव्याख्या

नियमेन भवम् । ‘त्यब् नेर्ध्रुवे’ (वा० ४.२.१०४) । 'नित्यं स्यात्संततेऽपि च । शाश्वते त्रिषु')


प्रक्रिया

नि + त्यप् - त्यब्नेर्ध्रुव इति वक्तव्यम् (4.2.104) । वार्तिकम् ।
नि + त्य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नित्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नित्य + अम् - अतोऽम् 7.1.24
नित्यम् - अमि पूर्वः 6.1.107