अतिवेलम्

सुधाव्याख्या

अतिक्रान्तं वेलां मर्यादाम् । ‘अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा० २.२.१८) इति समासः ।


प्रक्रिया

अति + वेल + अम् - अत्यादयः क्रान्ताद्यर्थे द्वितीयया (२.२.१८) । वार्तिकम् ।
अतिवेल - सुपो धातुप्रातिपदिकयोः 2.4.71
अतिवेल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अतिवेल + अम् - अतोऽम् 7.1.24
अतिवेल - अमि पूर्वः 6.1.107