अत्यर्थम्

सुधाव्याख्या

अर्थो निवृत्तिर्विषयो वा, तमतिक्रान्तम् अत्यर्थम् ।।


प्रक्रिया

अति + अर्थ + अम् - अत्यादयः क्रान्ताद्यर्थे द्वितीयया (2.2.18) । वार्तिकम् ।
अति + अर्थ - सुपो धातुप्रातिपदिकयोः 2.4.71
अत्यर्थ - इको यणचि 6.1.77
अत्यर्थ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अत्यर्थ + अम् - अतोऽम् 7.1.24
अत्यर्थम् - अमि पूर्वः 6.1.107