अतिशयः

सुधाव्याख्या

सततं क्रियान्तरैरव्यवधानम्, अतिशयस्तु पौन: पुन्यम्, इति भेदः । अतिशेते । पचाद्यच् (३.१.१३४) । यद्वा अतिशयनम् । 'एरच्' (३.३.५६) भावे । अतिशेतेऽभिभवत्यनेन । अतिपूर्वाच्छीङः 'एरच्' (३.३.५६) इति मुकुटः । तन्न । ल्युट्प्रसङ्गात् । 'भरः पूर्णता इति स्वव्याख्यानविरोधाच्च ।