अनवरतम्

सुधाव्याख्या

नास्त्यवरतं यत्र ।


प्रक्रिया

नञ् + अवरत + सु - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
नञ् + अवरत - सुपो धातुप्रातिपदिकयोः 2.4.71
न + अवरत - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + अवरत - नलोपो नञः 6.3.73
अ + नुट् + अवरत - तस्मान्नुडचि 6.3.74
अनवरत - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अनवरत + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अनवरत + अम् - अतोऽम् 7.1.24
अनवरतम् - अमि पूर्वः 6.1.107