अतिमात्रम्

सुधाव्याख्या

मात्रा स्तोकम्, तामतिक्रान्तम् । 'गोस्त्रियोः-'(१.२.४८) इति हस्वः ।


प्रक्रिया

अति + मात्रा + अम् - अत्यादयः क्रान्ताद्यर्थे द्वितीयया (2.2.18) । वार्तिकम् ।
अति + मात्रा - सुपो धातुप्रातिपदिकयोः 2.4.71
अतिमात्र - गोस्त्रियोरुपसर्जनस्य 1.2.48
अतिमात्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अतिमात्र + अम् - अतोऽम् 7.1.24
अतिमात्रम् - अमि पूर्वः 6.1.107