अमरकोशः


श्लोकः

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः । हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अवदात अवदातः पुंलिङ्गः अवदायते स्म । क्तः कृत् अकारान्तः
2 सित सितः पुंलिङ्गः सिनोति मनः । क्तः उणादिः अकारान्तः
3 गौर गौरः पुंलिङ्गः गुरते उद्युङ्क्ते मनोऽस्मिन् । उणादिः अकारान्तः
4 वलक्ष वलक्षः पुंलिङ्गः अवलक्ष्यते । घञ् कृत् अकारान्तः
5 धवल धवलः पुंलिङ्गः धावति मनोऽत्र । कलच् उणादिः अकारान्तः
6 अर्जुन अर्जुनः पुंलिङ्गः अर्ज्यते । उनन् उणादिः अकारान्तः
7 हरिण हरिणः पुंलिङ्गः हरति मनः । इनच् उणादिः अकारान्तः
8 पाण्डुर पाण्डुरः पुंलिङ्गः पाण्डुत्वमस्यास्ति । रः अकारान्तः
9 पाण्डु पाण्डुः पुंलिङ्गः पण्ड्यते ज्ञायते । कुः उणादिः उकारान्तः
10 ईषत्पाण्डु ईषत्पाण्डुः पुंलिङ्गः उकारान्तः
11 धूसर धूसरः पुंलिङ्गः धूनोति चेतः । क्सरः उणादिः अकारान्तः