पाण्डुः

सुधाव्याख्या

पण्ड्यते ज्ञायते । पडि गतौ’ (भ्वा० आ० से०) । मृगय्वादित्वात् (उ० १.३७) कुः । पृषोदरादित्वात् (६.३१०९) दीर्घः । ‘पाण्डुस्तु पीतभागार्थः केतकीधूलिसंनिभः’ इति शब्दार्णवः । पाण्डुः कुन्तीपतौ सिते’ इति हैमः ।