गुरते उद्युङ्क्ते मनोऽस्मिन् । 'गुरी उद्यमने’ (तु० अ० से०) । 'ऋज्रेन्द्र-' (उ० २.२८) इति निपातितः । ‘गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि । विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे’ इति हैमः । यत्तु—गोरते’ इति स्वामी, गोरति' इति मुकुटश्च तन्न । 'गुरी उद्यमने’ इति धातुमुपन्यस्योक्तरूपोपन्यासस्या- सम्भवात् ।