वलक्षः

सुधाव्याख्या

अवलक्ष्यते । घञ् (३.३.१९) । वष्टि भागुरिः-' इत्यल्लोपः । यद्वा वलति । ‘वल चलने (भ्वा० प० से०) । क्विप् (३.२.१७८) । वल् । अक्षन्त्यस्मात् । अक्षू व्याप्तौ संघाते च (भ्वा० प० से०) । घञ् (३.३.१९) । वल् चासौ अक्षश्च । यद्वा वलं क्षायति । क्षै क्षये (भ्वा० प० अ०) । 'आतोऽनुप -(३.१.३) इति कः ।