धूसरः

सुधाव्याख्या

धूनोति चेतः । ‘धू विधूनने’ (स्वा० आ० से०) । 'कृधूमदिभ्यः क्सरः' (उ० ३.७३) । बाहुलकादषत्वम् । यद्वा धूसनम् । धूस कान्तौ’ (चु० प० से०) चुरादिः । 'एरच्' (३.३.४६) । धूसं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप- (३.२.३) इति कः । ‘धूसरी किंनरीभेदे, ना खरेत्रिषु पाण्डुरे । ‘धूसरस्तु सितः पीतलेशवान्बकुलच्छविः’ इति शब्दार्णवः ।