धवलः

सुधाव्याख्या

धावति मनोऽत्र । 'धावु गतिशुद्ध्योः (भ्वा० उ० से०) । वृषादित्वात् (उ० १.१०६) कलच् । बाहुलकाद्ध्रस्वः । यद्वा धवनं धवः धूञ् कम्पने’ (क्र्या० उ० से०) । ॠदोरप्-’ (३.३.५७) । धवं लाति । ‘ला दाने' (अ० प० अ०) । आतोऽनुप (३.२.३) इति कः । अथ धवलो महोक्षे सुन्दरे सिते । धवली गौः’ इति हैमः ।