अर्जुनः

सुधाव्याख्या

अर्ज्यते । 'अर्ज अर्जने’ (भ्वा० प० से०) अर्जेर्णिलुक् च' (उ० ३.५१) इत्युनन् । अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे स्यादर्जुनी गवि ।