अमरकोशः


श्लोकः

कृष्णे नीलासितश्यामकालश्यामलमेचकाः । पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कृष्ण कृष्णः पुंलिङ्गः कर्षति मनः । नकः उणादिः अकारान्तः
2 नील नीलः पुंलिङ्गः कः कृत् अकारान्तः
3 असित असितः पुंलिङ्गः सितविरुद्धोऽसितः । नञ् तत्पुरुषः समासः अकारान्तः
4 श्याम श्यामः पुंलिङ्गः श्यायते मनोऽस्मात् । मक् उणादिः अकारान्तः
5 काल कालः पुंलिङ्गः कल्यते कालः । घञ् कृत् अकारान्तः
6 श्यामल श्यामलः पुंलिङ्गः श्यामः श्यामत्वमस्यास्तीति । लच् तद्धितः अकारान्तः
7 मेचक मेचकः पुंलिङ्गः मचति मिश्रीभवति वर्णान्तरेण । वुन् उणादिः अकारान्तः
8 पीत पीतः पुंलिङ्गः पीयते पिबति वर्णान्तरम् । क्तः बाहुलकाद् अकारान्तः
9 गौर गौरः पुंलिङ्गः अकारान्तः
10 हरिद्राभ हरिद्राभः पुंलिङ्गः हरिद्रेवाभा दीप्तिरस्य । बहुव्रीहिः समासः अकारान्तः
11 पालाश पालाशः पुंलिङ्गः पलाशस्य पत्रस्यायम् । अण् तद्धितः अकारान्तः
12 हरित हरितः पुंलिङ्गः इतन् उणादिः अकारान्तः
13 हरित् हरित् पुंलिङ्गः इतन् उणादिः तकारान्तः