गौरः

सुधाव्याख्या

गुरते उद्युङ्क्ते मनोऽस्मिन् । 'गुरी उद्यमने’ (तु० अ० से०) । 'ऋज्रेन्द्र-' (उ० २.२८) इति निपातितः । ‘गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि । विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे’ इति हैमः । यत्तु—गोरते’ इति स्वामी, गोरति' इति मुकुटश्च तन्न । 'गुरी उद्यमने’ इति धातुमुपन्यस्योक्तरूपोपन्यासस्या- सम्भवात् ।


प्रक्रिया

धातुः - गुरीँ उद्यमने


गुर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गौर - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
गौर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गौर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गौर + रु - ससजुषो रुः 8.2.66
गौर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गौरः - खरवसानयोर्विसर्जनीयः 8.3.15