कृष्णः

सुधाव्याख्या

कर्षति मनः । ‘कृषेर्वर्णे’ (उ० ३.४) इति नक् । ‘कृष्णः काके पिके वर्णे विष्णौ व्यासेऽर्जुने कलौ । कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि । कृष्णं तु मरिचे लोहे’ इति हैमः ।