श्यामः

सुधाव्याख्या

श्यायते मनोऽस्मात् । ’श्यैङ् गतौ’ (भ्वा० आ० अ०) । 'इषियुधीन्धि-'(उ० ११४५) इति मक् । 'श्यामोऽम्बुदे शितौ । हरिते प्रयागवटे कोकिले वृद्धदारुके । श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशो:’ इति हैमः ।