पालाशः

सुधाव्याख्या

पालाश इति । पलाशस्य पत्रस्यायम् । तस्येदम् (४.३ १२०) इत्यण् । ‘पत्रं पलाशं ना रक्षः शठीहरितकिंशुके’ इति रुद्राद्ध्रस्वादिरपि । तत्र संज्ञापूर्वकत्वाद्वृद्ध्यभाव: । यद्वा पलमश्नाति । 'अश भोजने' (क्र्या० प० से०) । 'कर्मण्यण्' (३.२.१) । ततः प्रज्ञाद्यण् (५.४.३८) । पलाशः किंशुके शट्यां । हरिद्वर्णो राक्षसश्च पलाशं छदने स्मृतम्' इति हैम: । 'शेषे’ (४.२.९२) इत्यस्य विधित्वाङ्गीकारादण् इत्याहुः । तन्न । तस्येदम् इति सिद्धे शेषत्वाभावात् ।