मेचकः

सुधाव्याख्या

मचति मिश्रीभवति वर्णान्तरेण । ‘मच मुचि कल्कने' (भ्वा० आ० से०) । 'कृञादिभ्यः संज्ञायां वुन्' (उ० ५.३५) । ‘पचिमच्योरिच्चोपधायाः' (उ० ५.३७) इतीत्वे लघूपधगुणः (७.३.८६) । 'मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके' इति हैमः ।