ओदनम्

सुधाव्याख्या

उनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । ‘उन्देर्नलोपश्च' (उ० २.७६) इति युच् । ऊर्दतेऽनेन वा । ‘ऊर्द क्रीडायाम्' (भ्वा० आ० से०) । करणे ल्युट् (३.३.११७) । पृषोदरादिः (६.३.१०९) । ‘ओदनं न स्त्रियां भक्ते बलायामोदनी स्त्रियाम्’ (इति मेदिनी) । दीदिविसहितोऽस्त्री, इत्यन्वयः ॥