भिस्सा

सुधाव्याख्या

भीति । बभस्ति । ‘भस दीप्तौ' (जु० प० से०) । बाहुलकात्सः । ‘बहुलं छन्दसि’ (७.४.७८) इतीत्वम् । ‘ब्राह्मणभिस्सा' इति (६.३.१ सूत्रे) भाष्यप्रयोगाल्लोकेऽपि । यद्वा भेदनम् । सम्पदादिः (वा० ३.३.१०८) । भिदं स्यति । ‘षो अन्तकर्मणि' (दि० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । ‘पृषोदरादिः' (६.३.१०९) । मुकुटस्तु–भ्यस्यते भक्ष्यते । ‘भ्यस भये' (भ्वा० प० से०) भक्षणार्थः । ‘भ्यसेः सम्प्रसारणं सश्च’–इत्याह । तदपाणिनीयम् ॥