अन्नम्

सुधाव्याख्या

अद्यते स्म । क्तः (३.२.१०२) । ‘अन्नाण्णः' (४.४.८५) इति निपातनात् 'बहुलं तणि' (वा० २.४.५४) इति वा न जग्धिः । ‘अन्नं भक्ते च भुक्ते स्यात्' इति (मेदिनी) ॥