करम्भः

सुधाव्याख्या

केति । केन जलेन रम्यते मिश्रीक्रियते । केन वायुना वा नीयते । ‘रभिः’ (भ्वा० आ० अ०) अनेकार्थः । ‘अकर्तरि च-' (३.३.१९) इति घञ् । ‘रभेरशब्लिटोः’ (७.१.६३) इति नुम् । 'करम्बः' इति पाठे केन जलेन रम्यते । ‘रबि शब्दे' (भ्वा० आ० से०) । अच् (३.१.१३४) । यद्वा किरति’ कीर्यते, वा । ‘कॄ विक्षेपे' (तु० प० से०) ‘कॄकदिकडिकटिभ्योऽम्बच्’ (उ० ४.८२) ॥