पूपः

सुधाव्याख्या

प्विति । पवनम् । ‘पूञ् पवने’ (क्र्या० उ० से०) सम्पदादिक्विप् (वा० ३.३.१०८) पुवं पाति, पिबति, वा । ‘आतोऽनुप-' (३.२.३) इति कः । मुकुटस्तु–पुनाति । पूपः । ‘नीपादयश्च' इति पः कित्-इति तन्न । तादृशसूत्रस्यापाणिनीयत्वात् ॥