वरत्रा

सुधाव्याख्या

व्रियतेऽनया । ‘वृञ् वरणे’ (स्वा० उ० से०) । बाहुलकादत्रः । यद्वा वरं त्रायते । ‘त्रैङ् पालने’ (भ्वा० आ० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः ॥