दूष्या

सुधाव्याख्या

द्विति । दूष्यतेऽनया । ‘दूष वैकृत्ये’ (दि० प० अ०) । ण्यन्तः । ‘दोषो णौ’ (६.४.९०) इत्यूत् । ‘अचो यत्’ (३.१.९६) । 'दूष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गृहे’ (इति मेदिनी) । -चूष्यते पीयते पृष्ठमासेनादृश्यतां नीयते । ‘चूष पाने’ (भ्वा० प० से०) । कर्मणि ‘घञर्थे कः’ (वा० ३.३.५८) । ('चूषा') इति मुकुटः ॥