सज्जना

सुधाव्याख्या

एवं ‘षस्ज गतौ’ (भ्वा० प० से०) । ण्यन्ताद्युच् (३.३.१०७) । ‘सज्जनं तु भवेत्क्ली- बमुपरक्षणघट्टयोः । वाच्यलिङ्गं कुलीने स्यात्कल्पनायां च योषिति' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


षस्जँ गतौ
सस्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, धात्वादेः षः सः 6.1.64
सस्ज् + णिच् - हेतुमति च 3.1.26
सस्ज् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सस्ज् + इ + युच् - ण्यासश्रन्थो युच् 3.3.107
सस्ज् + इ + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सस्ज् + इ + अन - युवोरनाकौ 7.1.1
सस्ज् + अन - णेरनिटि 6.4.51
सश्जन - स्तोः श्चुना श्चुः 8.4.40
सज्जन - झलां जश् झशि 8.4.53
सज्जन + टाप् - अजाद्यतष्टाप्‌ 4.1.4
सज्जन + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सज्जना - अकः सवर्णे दीर्घः 6.1.101
सज्जना + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सज्जना + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सज्जना - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68