कल्पना

सुधाव्याख्या

केति । कल्पनम् । ‘कृपू सामर्थे’ (भ्वा० आ० से०) । ण्यन्तः । ‘ण्यासश्रन्थ-' (३.३.१०७) इति युच् । अथ कल्पना । करिणः सज्जनायां स्त्री क्लीबं क्लृप्तौ च कल्पने’ । (इति मेदिनी) ॥


प्रक्रिया

धातुः -


कृपूँ सामर्थ्ये
कृप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कृप् + णिच् - हेतुमति च 3.1.26
कृप् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कृप् + इ + युच् - ण्यासश्रन्थो युच् 3.3.107
कृप् + इ + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कृप् + इ + अन - युवोरनाकौ 7.1.1
कृप् + अन - णेरनिटि 6.4.51
कर्प् + अन - पुगन्तलघूपधस्य च 7.3.86
कल्पन - कृपो रो लः 8.2.18
कल्पन + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कल्पन + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कल्पना - अकः सवर्णे दीर्घः 6.1.101
कल्पना + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कल्पना + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कल्पना - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68