वर्णः

सुधाव्याख्या

व्रियतेऽनेन । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित्’ (उ० ३.१०) । यद्वा बहवो वर्णाः सन्त्यस्य । अर्शआद्यच् (५.२.१२७) । ‘वर्णाः स्वर्गे व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे । भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्णं तु कुङ्कुमे’ इति हैमः ॥