कुथः

सुधाव्याख्या

कुथ्नाति । ‘कुन्थ दीप्तौ’ (क्र्या० प० से०) । अच् (३.१.१३४) । ‘-दहदश-’ (३.१.२४) इति निर्देशात्क्वचिदकित्यपि नलोपः । यद्वा कुन्थत्यशोभाम् 'कुथि हिंसायाम्' (भ्वा० प० से०) । आगमशास्त्रस्यानित्यत्वान्न नुम् । ‘इगुपध-’ (३.१.१३५) इति कः । यद्वा कुथ्यति । 'कुथ पूतीभावे’ (दि० प० से०) । ‘इगुपध-' (३.१.३१५) इति कः । कुथः स्त्रीपुंसयोर्वर्णकम्बले पुंसि बर्हिषि’ (इति मेदिनी) । क्लीबेऽपि । ‘स्त्री प्रवेणी' । कुथं त्रिषु' इति वोपालितः ॥