परिस्तोमः

सुधाव्याख्या

परिस्तूयते । ‘ष्टुञ् स्तुतौ’ (अ० उ० अ०) । ‘अर्तिस्तुसु-’ (उ० १.१४०) इति मन् । परिगतः स्तोमोऽत्र । वर्णस्तोमवत्त्वात् । यद्वा - परिगतः सोमोऽत्र । 'यत्क्रियायुक्ताः (तं प्रति)’ (वा० १.४.५९) इति परेः स्तौतिं प्रत्यनुपसर्गत्वान्न षः (८.३.६५) ॥


प्रक्रिया

धातुः -


ष्टुञ् स्तुतौ
ष्टु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्तु - धात्वादेः षः सः 6.1.64
परि + स्तु + मन् - अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् (१.१४०) । उणादिसूत्रम् ।
परि + स्तु + म - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
परि + स्तो + म - सार्वधातुकार्धधातुकयोः 7.3.84
परिस्तोम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
परिस्तोम + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परिस्तोम + रु - ससजुषो रुः 8.2.66
परिस्तोम + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परिस्तोमः - खरवसानयोर्विसर्जनीयः 8.3.15