बाल्हीकम्

सुधाव्याख्या

वह्लते । ‘वह्ल प्राधान्ये’ (भ्वा० आ० से०) । बाहुलकादीकन् । वल्हीकदेशे भवम् । ‘कच्छादिभ्यश्च’ (४.२.१३३) इत्यण् । ‘वाल्हीकं वाल्हिकं धीरहिङ्गुनोर्नाश्मदेशयोः’ (इति त्रिकाण्डशेषः) । ‘काश्मीरं चारु वाल्हीकं संकोचं पिशुनं वरम्’ इति हलायुधाच्चार्वपि ॥