पिशुनम्

सुधाव्याख्या

पिंशति । ‘पिश अवयवे’ (तु० प० से०) । ‘क्षुधिपिशिमिथिभ्यः कित्’ (उ० ३.५५) इत्युनन् । ‘पिशुनं कुङ्कुमेऽपि च । कपिवक्त्रे च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां पिशुना स्त्री स्यात्’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


| पिशँ अवयवे | |

| पिश् | - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |

| पिश् + उनन् | - क्षुधिपिशिमिथिभ्यः कित् (३.५५) । उणादिसूत्रम् । |

| पिशुन | - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9 |

| पिशुन + सु | - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2 |

| पिशुन + अम् | - अतोऽम् 7.1.24 |

| पिशुनम् | - अमि पूर्वः 6.1.107 |