संकोचम्

सुधाव्याख्या

संकोचति, संकुच्यते, वा । यद्वा संकोचयति, संकोच्यते, वा । ‘कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु’ (भ्वा० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । सङ्कुचति- इति मुकुटो न सम्यक् । ‘कुच सङ्कोचने’ इत्यस्य कुटादित्वेनाचि गुणाभावप्रसङ्गात् । ‘सङ्कोचो मीनभेदे च बन्धं क्लीबं तु कुङ्कुमे’ इति मेदिनी ॥