वरम्

सुधाव्याख्या

व्रियते । ‘वृञ् वरणे' (स्वा० उ० से०) ‘ग्रहवृदृ’ (३.३.५८) इत्यप् । ‘वरो वृतौ । विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते । वरं तु घुसृणे किञ्चिदिष्टे’ इति हैमः । ‘काश्मीरजं वह्निशिखं बाह्लीकं पीतनं वरम्’ (इति वाचस्पतिः) ॥