पीतनम्

सुधाव्याख्या

पीतं करोति । ‘तत्करोति-’ (वा० ३.१.२६) इति ण्यन्ताल्ल्युः (३.१.१३३) । यद्वा पीयते । ‘पीङ् पाने’ (दि० आ० अ०) बाहुलकात्तनन्, गुणाभावश्च । ‘पीतनं पीतदारुणि । कुङ्कुमे हरिताले च पुमानाम्रातके मतः’ (इति मेदिनी) ॥