काश्मीरजन्मन्म्

सुधाव्याख्या

कशति, कश्यते वा । ‘कश शब्दे’ । ‘कशेर्मुट् च’ (उ० ४.३२) इतीरन् ।– ‘गम्भीरादयश्च’ -इति मुकुट एतत्सूत्रादर्शनमूलकः कश्मीरे जन्मास्य । ‘काश्मीरं कुङ्कुमेऽपि स्याट्टङ्कपुष्करमूलयोः’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


कशँ शब्दे
कश् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काश् + मुट् + ईरन् - कशेर्मुट् च (४.३२) । उणादिसूत्रम् ।
काश् + म् + ईर - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
काश्मीर + ङि + जन्मन् + सु - अनेकमन्यपदार्थे 2.2.24
काश्मीर + जन्मन् - सुपो धातुप्रातिपदिकयोः 2.4.71
काश्मीरजन्मन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
काश्मीरजन्मन् - स्वमोर्नपुंसकात्‌ 7.1.23
काश्मीरजन्म - नलोपः प्रातिपदिकान्तस्य 8.2.7