सप्तकी

सुधाव्याख्या

सपति । ‘षप समवाये’ (भ्वा० प० से०) । बाहुलकात्तन् । स्वार्थे (ज्ञापि० ५.४.५) कन् । सप्तभिरनेकाभिः किङ्किणीभिः, सप्त स्वरान् वा कायति । ‘आतः’ (३.१.१३६, २.३) इति कः । गौरादिः (४.१.४१)—कायन्ति अस्याम् । मूलविभुजादित्वात् (वा० ३.२.५) कः–इति मुकुटश्चिन्त्यः । अधिकरणे तत्प्रवृत्तेरसम्भवात् ॥