काञ्ची

सुधाव्याख्या

काञ्चते । ‘काचि दीप्तिबन्धनयोः’ (भ्वा० आ० से०) । इन् (उ० ४.११८) । वा ङीष् (ग० ४.१.४५) ।-‘अन्येभ्योऽपि’ इति दीर्घः इति मुकुटश्चिन्त्यः । धातोरेव दीर्घवत्त्वात् । ‘अन्येभ्योऽपि’ इत्येतादृशस्य दीर्घविधायकस्याभावात् । ‘अन्येषामपि’ (६.३.१३७) इति वक्तुं युक्तत्वाच्च । ‘काञ्ची स्यान्मेखलादाम्नि प्रभेदे नगरस्य च’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


काचिँ दीप्तिबन्धनयोः
काच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
का + नुम् + च् - इदितो नुम् धातोः 7.1.58
का + न् + च् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कांच् - नश्चापदान्तस्य झलि 8.3.24
काञ्च् - अनुस्वारस्य ययि परसवर्णः 8.4.58
काञ्च् + इन् - सर्वधातुभ्य इन् (४.११८) । उणादिसूत्रम् ।
काञ्च् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
काञ्चि + ङीष् - बह्वादिभ्यश्च 4.1.45
काञ्चि + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
काञ्च् + ई - यस्येति च 6.4.148
काञ्ची + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
काञ्ची + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काञ्ची - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68