करभूषणम्

सुधाव्याख्या

करं भूषयति । करो भूष्यतेऽनेन वा । ल्युट् (३.३.११३,११७) । ‘क्लीबं मण्डने सूत्रे कङ्कणं करभूषणम्’ इति रभसः । ‘हस्तमण्डनसूत्रे स्यात् कङ्कणो ना प्रतीसरः’ इति रत्नकोषः ॥