अङ्गुलिमुद्रा

सुधाव्याख्या

सेति । सा ऊर्मिका । अक्षरैः सहिता चेत् । अङ्गुल्या मुदं राति । ‘आतः’ (३.२.३) इति कः । मोदते वा । ‘मुद हर्षे’ (भ्वा० आ० से०) । ‘स्फायितञ्चि-’ (उ० २.१३) इति रक् । अङ्गल्या मुद्रा ॥