रशना

सुधाव्याख्या

अश्नुते । ‘अशूङ् व्याप्तौ संघाते च’ (स्वा० आ० से०) । अश्नाति । ‘अश भोजने’ (‘क्र्या० प० से०) । ‘अशे रश् च’ (उ० २.७५) इति यच् रशादेशः । यद्वा, रशति । ‘रश शब्दे’ सौत्रः । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् । तालव्यमध्या । दन्त्यमध्यापि । ‘रस शब्दे’ (भ्वा० प० से०) । ‘रस आस्वादने’ (चु० उ० से०) । ‘बहुलम्’ (उ० २.७८) इति युच् । ‘ण्यासश्रन्थ-’ (३.३.१०७) इति वा युच् । ‘तालव्या अपि दन्त्याश्च शम्बशम्बलशूकराः । रशनापि च जिह्वायाम्’ । ‘रसनं निस्वने स्वादे रसना काञ्चिजिह्वयोः’ इत्यजयधरणी । ‘रसनं स्वदने ध्वाने रसना काश्चिजिह्वयोः । ‘रसनं चापि रास्नायाम्’ इति विश्वप्रकाशः । एवमुभयमुभयत्र साधु ॥