कङ्कणः

सुधाव्याख्या

कङ्केति । कं शुभं कणति । ‘कण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । कङ्कते वा । ‘कक लौल्ये’ (भ्वा० आ० से०) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति ‘अनुदात्तेतश्च हलादेः’ (३.२.१४९) इति वा युच् । पृषोदरादित्वात् (६.३.१०९) णत्वम् । ‘कङ्कणं करभूषायां सूत्रमण्डनयोरपि’ (इति मेदिनी) ॥