मेखला

सुधाव्याख्या

स्त्रीति । मखं गतिं लाति । कः (३.२.३) । पृषोदरादिः (६.३.१०९)–मीयते । ‘डुमिव् प्रक्षेपणे’ (स्वा० उ० अ०) । ‘कलम्बादयश्च’ इति साधुः इति मुकुटश्चिन्त्यः । तत्सूत्रस्योज्ज्वलदत्तादिष्वदर्शनात् । ‘मेखलाद्रिनितम्बे स्याद्रशनाखङ्गबन्धयोः’ इति हैमः ॥