मर्कटः

सुधाव्याख्या

मर्कति । ‘मर्क धातुर्ग्रहणे । ‘शकादिभ्योऽटन्' (उ० ४.८१) । मुकुटस्तु मर्के: सौत्राद्गत्यर्थाच्चुरादित्वाद्विकल्पितणिचः ‘शकादिभ्योऽटन्’ – इत्याह । तच्चिन्त्यम् । मर्केश्चौरादित्वाभावात् । यदपि म्रियते । ‘जटमर्कटो' इति मृङोऽटन्ककारश्चान्तादेशः – इत्युक्तम् । तदपि निर्मूलत्वापेक्ष्यम् ॥