कीशः

सुधाव्याख्या

‘की' इति शब्दमीष्टे । 'ईश ऐश्वर्ये (अ० आ० से०) । मूलविभुजा-' (वा० ३.२.५) इति कः । यद्वा कस्य वायोरपत्यम् । ‘अत इञ्’ (४.१.९५) । किर्हनुमान् ईशो यस्य ॥